|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.15. अध्यायः 015
Mahabharata - Virata Parva - Chapter Topics
अथ समयपलनपर्व ॥ 2 ॥ पाण्डवैः स्वस्वव्यापारैर्विराटपरितोपणम् ॥ 1 ॥ भीमेन शङ्करोत्सवे महामल्लमारणम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
जनमेजय उवाच। 4-15-0x(3049)(28749)
एवं विराटनगरे वसन्तः सत्यविक्रमाः।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥ 1 ॥ 4-15-1(28750)
वैशम्पायन उवाच। 4-15-2x(3050)
एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः ।
आराधयन्तो राजानां यदकुर्वत तच्छृणु ॥ 2 ॥ 4-15-2(28751)
युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः ।
तथैव च विराटस्य सपुत्रस्य विशांपते ॥ 3 ॥ 4-15-3(28752)
स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः।
अक्षबद्धान्यथाकामं सूत्रबद्धानिव द्विजान् ॥ 4 ॥ 4-15-4(28753)
अज्ञातं च विराटस्य विजित्य वसु धर्मराट्।
भ्रातृभ्यः पुरुषव्याघ्रो यथेष्टं संप्रयच्छति ॥ 5 ॥ 4-15-5(28754)
भीमसेनोपि मांसानि भक्ष्याणि विविधानि च ।
अतिसृष्टानि मत्स्येन विक्रीणन्निव भ्रातृषु ॥ 6 ॥ 4-15-6(28755)
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः ।
विक्रीणन्निव सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ॥ 7 ॥ 4-15-7(28756)
नकुलोपि धनं लब्ध्वा कृते कर्मणि वाजिनाम्।
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ॥ 8 ॥ 4-15-8(28757)
सहदेवोपि गोपानां वेषमास्थाय पाण्डवः।
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ॥ 9 ॥ 4-15-9(28758)
कृष्णा तु सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी ।
यथा पुनरविज्ञाता तथा चरति भामिनी ॥ 10 ॥ 4-15-10(28759)
एवं संभावयन्तस्ते तदाऽन्योन्यं महारथाः।
विराटनगरे चेरुः पुनर्गर्भधृता इव ॥ 11 ॥ 4-15-11(28760)
साशङ्का धार्तराष्ट्रस्य भयात्पाण्डुसुतास्तदा ।
प्रेक्षमाणास्तदा कृष्णामूपुश्छन्ना नराधिप ॥ 12 ॥ 4-15-12(28761)
अथ मासे चतुर्थे तु शङ्करस्य महोत्सवः।
आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ॥ 13 ॥ 4-15-13(28762)
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः ॥ 14 ॥ 4-15-14(28763)
महाकाया महावीर्याः कालकेया इवासुराः।
वीर्योन्मत्ता बलोदग्रा राज्ञा समभिपूजिताः ॥ 15 ॥ 4-15-15(28764)
सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः।
असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ ॥ 16 ॥ 4-15-16(28765)
तेषामेको महानासीत्सर्वमल्लानथाह्वयत्।
व्यावल्गमानो ददृशे गर्जितोद्गतिभिः स्थितः ॥ 17 ॥ 4-15-17(28766)
वित्रस्तमनसः सर्वे मल्लास्ते हतचेतसः ।
अवाङ्भुखाश्च भीताश्च मल्लाश्चान्ये विचेतसः ॥ 18 ॥ 4-15-18(28767)
व्यसुत्वमपरे चैव वाञ्छन्ति प्रतिविह्वलाः।
गां प्रवेष्टुमथेच्छन्ति खं गन्तुमिव चोत्थिताः ॥ 19 ॥ 4-15-19(28768)
त्रस्ताः शान्ता विषणाङ्गा निःशब्दं विह्वलेक्षणाः ।
विराटराजमल्लास्ते भग्नदर्पा हतप्रभाः ॥ 20 ॥ 4-15-20(28769)
मल्लेन्द्रनिहताः सर्वे न किंचित्प्रवदन्ति ते।
मल्ल उद्वीक्ष्य तान्मल्लांस्रस्तान्वाक्यमुवाचह ॥ 21 ॥ 4-15-21(28770)
आगतं मल्लराजं मां कृत्स्ने पृथिविमण्डले ।
सिंहव्याघ्रगणैः सार्धं क्रीडन्तं विद्धि भूपते ॥ 22 ॥ 4-15-22(28771)
मल्लेन्द्रस्य वचः श्रुत्वा बलदर्पसमन्वितम् ।
विराटो वीक्ष्य तान्मल्लांस्त्रस्तान्वाक्यमुवाच ह ॥ 23 ॥ 4-15-23(28772)
अनेन सह मल्लेन को योद्धुं शक्तिमान्नरः ॥ 24 ॥ 4-15-24(28773)
इत्युक्तास्ते विराटेन सर्वे मल्ला विशांपते ।
तूष्णीमासंस्ततो राजा क्रोधाविष्ट उवाच ह ॥ 25 ॥ 4-15-25(28774)
ग्रामांश्च वेतनान्येपां मल्लानां हारयाम्यहम्।
ततो युधिष्ठिरोऽवादीच्छ्रुत्वा मात्स्यपतेर्वचः ॥ 26 ॥ 4-15-26(28775)
अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे।
अनेन सह मल्लेन योद्धुं शक्नोति भूपते ॥ 27 ॥ 4-15-27(28776)
योसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे।
सोयं मल्लो वसत्येप राजंस्तव महानसे ॥ 28 ॥ 4-15-28(28777)
वैशम्पायन उवाच। 4-15-29x(3051)
युधिष्ठिरवचः श्रुत्वा व्यक्तमाहेति पार्थिवः।
सोप्यथाहूयतां क्षिप्रं योद्धुं मल्लेन संप्रति ॥ 29 ॥ 4-15-29(28778)
भीमसेनो विराटेन आहूतश्चोदितस्तथा।
योद्धुं ततोऽब्रवीद्वाक्यं योद्धुं शक्नोमि भूपते ॥ 30 ॥ 4-15-30(28779)
नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात्।
अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् ॥ 31 ॥ 4-15-31(28780)
युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशांपते।
महादेवस्य भक्त्या च तं मल्लं पातयाम्यहम् ॥ 32 ॥ 4-15-32(28781)
वैशम्पायन उवाच। 4-15-33x(3052)
चोदितो भीमसेनस्तु मल्लमाहूय मण्डले।
योद्धुं व्यवस्थितो वीरो रेणुं संमृज्य हस्तयोः।
मत्तो गज इवान्यं तु योद्धुं समुपचक्रमे ॥ 33 ॥ 4-15-33(28782)
अथ सूदेन तं मल्लं योधयामास मत्स्यराट्र ॥ 34 ॥ 4-15-34(28783)
नोद्यमानस्तदा भीमो दुःखेनेवाकरोन्मतिम्।
न हि शक्नोम्यशक्तोपि प्रत्याख्यातुं नराधिपं ॥ 35 ॥ 4-15-35(28784)
ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन्।
प्रविवेश महारङ्गं विराटमभिहर्षयन् ॥ 36 ॥ 4-15-36(28785)
बवन्ध कक्षां कौन्तेयस्ततः संहर्षयञ्जनम् ।
ततस्तु वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ॥ 37 ॥ 4-15-37(28786)
जीमूतं नाम तं तत्र मल्लप्रख्यातविक्रमम् ।
कक्षे मल्लं गृहीत्वाऽथ ननाद बहु सिंहवत् ॥ 38 ॥ 4-15-38(28787)
तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ ।
मत्ताविव महाकायौ वारणौ षष्ठिहायनौ ॥ 39 ॥ 4-15-39(28788)
ततस्तौ नरशार्दूलौ बाहुयुद्धं समीयतु।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ॥ 40 ॥ 4-15-40(28789)
उभौ परमसंहृष्टौ बलेनातिबलावुभौ ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥ 41 ॥ 4-15-41(28790)
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥ 42 ॥ 4-15-42(28791)
क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्स्वनैः।
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥ 43 ॥ 4-15-43(28792)
शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ।
जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ॥ 44 ॥ 4-15-44(28793)
तद्युद्धमभवद्धोरमशस्त्रं बाहुतेजसा।
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ॥ 45 ॥ 4-15-45(28794)
अरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ॥ 46 ॥ 4-15-46(28795)
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः।
आकर्षतुरथान्योन्यं जानुभिश्चापि जन्घतुः ॥ 47 ॥ 4-15-47(28796)
ततः शब्देन महता भर्त्सयन्तौ परस्परम्।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ।
बाहुभिः समसज्जेतामायसैः परिघैरिव ॥ 48 ॥ 4-15-48(28797)
उत्पपाताथ वेगेन मल्लं कक्षे गृहीतवान्।
पार्श्वं निगृह्य हस्तेन पातयामास मल्लकम् ॥ 49 ॥ 4-15-49(28798)
चकर्ष दोर्भ्यामुत्पात्य भीमो मल्लममित्रहा।
निनदं तमभिक्रोशञ्शार्दूल इव वारणम् ॥ 50 ॥ 4-15-50(28799)
समुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् ।
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ॥ 51 ॥ 4-15-51(28800)
भ्रामयित्वा शतगुणं गतसत्वमचेतनम् ।
प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः॥ 52 ॥ 4-15-52(28801)
तस्मिन्विनिहते वीरे जीमूते लोकविश्रुते ।
विराटः परमं हर्षमगच्छद्वान्धवैः सह ॥ 53 ॥ 4-15-53(28802)
प्रहर्षात्प्रददौ वित्तं बहु राज महामनाः।
वललाय महारङ्गे यथा वैश्रवणस्तथा ॥ 54 ॥ 4-15-54(28803)
एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् ।
विनिघ्नन्मत्स्यराजस्य प्रीतिमाहरदुत्तमाम् ॥ 55 ॥ 4-15-55(28804)
यदाऽस्य तुल्यः पुरुषो न कश्चितत्र विद्यते ।
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ॥ 56 ॥ 4-15-56(28805)
विराटेन प्रदत्तानि चित्राणि विविधानि च।
स्थितेभ्यः पुरुषेभ्यश्च दत्त्वा द्रव्याणि जग्मिवान् ॥ 57 ॥ 4-15-57(28806)
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः।
योध्यते स विराटस्य गजैः सिंहैर्महाबलैः ॥ 58 ॥ 4-15-58(28807)
बीभत्सुरपि गीतेन नृत्तेनापि च पाण्डवः।
विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ॥ 59 ॥ 4-15-59(28808)
अश्वैर्विनीतैर्जवनैस्तत्रतत्र समागतः।
तोपयामास राजानं नकुलो नृपसत्तमम्।
तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु ॥ 60 ॥ 4-15-60(28809)
विनीतान्वृपभान्दृष्ट्वा सहदेवस्य चाभितः।
धनं ददौ बहुविधं विराटः पुरुषर्षभः ॥ 61 ॥ 4-15-61(28810)
द्रौपदी प्रेक्ष्य तान्सर्वान्क्लिश्यमानान्महारथान् ।
नातिप्रीतमना राजन्निश्वासपरमाऽभवत् ॥ 62 ॥ 4-15-62(28811)
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः ।
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ॥ 63 ॥ ॥ 4-15-63(28812)
इति श्रीमन्महाभारते विराटपर्वणि समयपालनपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥ ॥ समाप्तं चेदं समयपालनपर्व ॥ 2 ॥
------------
Mahabharata - Virata Parva - Chapter Footnotes
4-15-42 कृतप्रतिकृतादयो मल्लयुद्धविशेषाः ॥ 42 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|